Keshavashtakam -Sanskrit हेडगवार केशवाष्टकम्

Ойын-сауық

#हेडगवार #केशवाष्टकम् #Keshavashtakam #sanskrit #संघगीत #geet #sanghgeet #rssgeet #shloka ‪@geet-ganga‬ #Geet-Ganga
Keshav BaliraM Hedagewar Keshavashtakam
हिन्दुर्विशाल गुणसिन्धुरपीहलोके
बिन्दूयते विघटितो न करोति किञ्चित्
सत्संहथिं घतयिथुं जननं यदीयं
तं केशवं मुहुरहं मनसास्मरामि ॥ १॥
भव्यं वपुस्मित मुदारमुदग्रमोजः
सस्नेह गद्गथवचो मधुरं हितं च ।
वात्सल्यपूर्णममलं हृदयं यदीयं
तं केशवं मुहुरहं मनसास्मरामि ॥ २॥
सङ्घे कलौ भवति शक्ति रितिप्रसिद्धं
जानति हिन्दुजनता नतु तत् कथञ्चित् ।
सम्यक् विनेतुमिहतत् हुतवन् वपुर्यः
तं केशवं मुहुरहं मनसास्मरामि ॥ ३॥
शुद्रं न किञ्चिदिह नानुपयोगी किञ्चित्
सर्वं हि सङ्घदितमत्र भवेत् भलय ।
इत्थं जनं विनयतिस्मनिरन्तरं यः
तं केशवं मुहुरहं मनसास्मरामि ॥ ४॥
आर्याक्षितेरिह समुद्धरणाय दास्यत्
दास्यमि देहमिह सन्खदनं विधातुम् ।
निश्चित्य भीष्ममचरत् सततं व्रतं यः
तं केशवं मुहुरहं मनसास्मरामि ॥ ५॥
यो डाक्टरेति भिषजां पदमदधनो
विज्न्जतवन् भरतभूमि रुजं निदानम् ।
सङ्घौषधं समुतपदि नवं च येन
तं केशवं मुहुरहं मनसास्मरामि ॥ ६॥
एको बहु किल भवेयमितीश्वरेच्छा
सैवभवेत् सततमेव परायदन्ताः ।
एकश्चयो विहितवानिह सङ्घसर्गं
तं केशवं मुहुरहं मनसास्मरामि ॥ ७॥
ऐशं हि कार्यमिदमित्यवगत्य सम्यक्
सङ्घ कृतौ घृतमिवर्पयदयुरज्यम् ।
यो जीर्नदेहमजहन्नवतं समेतुं
तं केशवं मुहुरहं मनसास्मरामि ॥ ८॥
अष्टकं केशवस्येदं प्रातर्नित्यं पठन्तिये ।
सङ्घकार्येण काठिण्यं तेषां भवति कर्हिचित् ॥

Пікірлер

    Келесі